NCERT Sanskrit Class 9 Chapter 2 - स्वर्णकाकः
- samskritasabha
- Apr 3, 2024
- 3 min read
Updated: Apr 10, 2024
द्वितीयः पाठः
स्वर्णकाकः
CBSE Sanskrit Textbook शेमुषी Shemushi Solutions (2024-25) Syllabus
NCERT Solutions for Class 9 Sanskrit Chapter 2 - स्वर्णकाकः
Shemushi (शेमुषी) Part -1 प्रथमो भागः - नवमकक्ष्यायाः संस्कृतपाठ्यपुस्तकम्
Textbook Questions and answers
1.एकपदेन उत्तरं लिखत-
(क) माता काम् आदिश?
(ख) स्वर्णकाकः कान् अखाद?
(ग) प्रासादः कीदृशः वर्तते?
(घ) गृहमागत्य तया का समुद्घाटिता?
(ङ) लोभाविष्टा बालिका कीदृशीं मञ्जूषां नयति?
उत्तराणि :
(क) पुत्रीम्।
(ख) तण्डुलान्।
(ग) स्वर्णमयः।
(घ) मञ्जूषा।
(ङ) बृहत्तमाम्।
(अ) अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत –
(क) निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?
उत्तरम् : निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत्।
(ख) बालिकया पूर्वं कीदृशः काकः न दृष्टः आसीत्?
उत्तरम् : बालिकया पूर्व स्वर्णकाकः न दृष्टः आसीत्।
(ग) निर्धनायाः दुहिता मञ्जूषायां कानि अपश्यत्?
उत्तरम् : निर्धनायाः दुहिता मञ्जूषायां महार्हाणि हीरकाणि अपश्यत्।
(घ) बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?
उत्तरम् : बालिका स्वर्णमयं प्रासादं दृष्ट्वा आश्चर्यचकिता जाता।
(ङ) गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्?
उत्तरम् : गर्विता बालिका स्वर्णसोपानम् अयाचत् परं ताम्रमयं प्राप्नोत्।
2.(क) अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखत।
शब्दः विलोमपदम्
(i) पश्चात् ..........
(ii) हसितुम् ..........
(iii) अधः ..........
(iv) श्वेतः ..........
(v) सूर्यास्तः ..........
(vi) सुप्तः ..........
उत्तरम् :
शब्दः विलोमपदम्
(i) पश्चात् - पूर्वम्
(ii) हसितुम् - रोदितुम्
(iii) अधः - उपरि
(iv) श्वेतः - कृष्णः
(iv) सूर्यास्तः - सूर्योदयः
(v) सुप्तः - प्रबुद्धः
(ख) सन्धिं कुरुत।
पदम् सन्धिः
(i) नि + अवसत् –..........
(ii) सूर्य + उदयः – ..........
(iii) वृक्षस्य + उपरि –..........
(iv) हि + अकारयत् – ..........
(iv) च + एकाकिनी – ..........
(v) इति + उक्त्वा –..........
(vi) प्रति + अवदत् – ..........
(vii) प्र + उक्तम् –..........
(ix) अत्र + एव –..........
(x) तत्र + उपस्थिता –..........
(xi) यथा + इच्छम् -..........
उत्तरम् :
(i) नि + अवसत् – न्यवसत्
(ii) सूर्य + उदयः – सूर्योदयः
(iii) वृक्षस्य + उपरि – वृक्षस्योपरि
(iv) हि + अकारयत् – ह्यकारयत्
(iv) च + एकाकिनी – चैकाकिनी
(v) इति + उक्त्वा – इत्युक्त्वा
(vi) प्रति + अवदत् – प्रत्यवदत्
(vii) प्र + उक्तम् – प्रोक्तम्
(ix) अत्र + एव – अत्रैव
(x) तत्र + उपस्थिता – तत्रोपस्थिता
(xi) यथा + इच्छम् – यथेच्छम्
3. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
(क) ग्रामे निर्धना स्त्री अवसत्।
उत्तरम् : ग्रामे का अवसत्?
(ख) स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत्।
उत्तरम् : कं निवारयन्ती बालिका प्रार्थयत्?
(ग) सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।
उत्तरम् : कस्मात् पूर्वमेव बालिका तत्रोपस्थिता?
(घ) बालिका निर्धनमातुः दुहिता आसीत्।
उत्तरम् : बालिका कस्याः दुहिता आसीत्?
(ङ) लुब्धा वृद्धा स्वर्णकाकस्य रहस्यमभिज्ञातवती।
उत्तरम् : लुब्धा वृद्धा कस्य रहस्यमभिज्ञातवती?
4. प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत)।
(क) वि + लोक् + ल्यप् - ..........
(ख) नि + क्षिप् + ल्यप् - ..........
(ग) आ + गम् + ल्यप् - ..........
(घ) दृश् + क्त्वा - ..........
(ङ) शी + क्त्वा - ..........
(च) लघु + तमप् - ..........
उत्तरम् :
(क) वि + लोक् + ल्यप् – विलोक्य
(ख) नि + क्षिप् + ल्यप् – निक्षिप्य
(ग) आ + गम् + ल्यप् – आगत्य
(घ) दृश् + क्त्वा – दृष्ट्वा
(ङ) शी + क्त्वा – शयित्वा
(च) लघु + तमप् – लघुतमम् / लघुतमः
5. प्रकृति-प्रत्यय-विभागं कुरुत।
(क) रोदितुम् - .............
(ख) दृष्ट्वा - ..........
(ग) विलोक्य - ..........
(घ) निक्षिप्य - ...........
(ङ) आगत्य - ..........
(च) शयित्वा - ..........
(छ) लघुतमम् - ..........
उत्तरम् :
पदम् प्रकृतिः + प्रत्ययः
(क) रोदितुम् – रुद् + तुमुन्
(ख) दृष्ट्वा – दृश् + क्त्वा
(ग) विलोक्य – वि + लोक् + ल्यप्
(घ) निक्षिप्य – नि + क्षिप् + ल्यप्
(ङ) आगत्य – आ + गम् + ल्यप्
(च) शयित्वा – शी + क्त्वा
(छ) लघुतमम् – लघु + तमप्
6. अधोलिखितानि कथनानि कः/का, कं/काम् च कथयति -
कथनानि कः/का कं/काम्
(क) पूर्वं प्रातराशः क्रियताम् ............ ............
(ख) सूर्यातपे तण्डुलान् खगेभ्यो रक्ष ............ ............
(ग) तण्डुलान् मा भक्षय ............ ............
(घ) अहं तुभ्यं तण्डुलमूल्यं दास्यामि ............ ............
(ङ) भो नीचकाक !अहमागता, मह्यं तण्डुलमूल्यं प्रयच्छ ............ ............
उत्तरम् :
कथनानि कः/का कं/काम्
(क) पूर्वं प्रातराशः क्रियताम् स्वर्णकाकः बालिकाम्
(ख) सूर्यातपे तण्डुलान् खगेभ्यो रक्ष वृद्धा बालिकाम्
(ग) तण्डुलान् मा भक्षय बालिका स्वर्णकाकम्
(घ) अहं तुभ्यं तण्डुलमूल्यं दास्यामि स्वर्णकाकः बालिकाम्
(ङ) भो नीचकाक !अहमागता, मह्यं तण्डुलमूल्यं प्रयच्छ लुब्धबालिका स्वर्णकाकम्
7. उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा- मूषकः बिलाद् बहिः निर्गच्छति। (बिल)
(क) जनः ............ बहिः आगच्छति। (ग्राम)
(ख) नद्यः ............ निस्सरन्ति। (पर्वत)
(ग) ........... पत्राणि पतन्ति। (वृक्ष)
(घ) बालकः .............. विभेति। (सिंह)
(ङ) ईश्वरः ....... त्रायते। (क्लेश)
(च) प्रभुः भक्तं ....... निवारयति। (पाप)
उत्तरम् :
(क) जनः ग्रामाद् बहिः आगच्छति।
(ख) नद्यः पर्वतेभ्यः निस्सरन्ति।
(ग) वृक्षात् पत्राणि पतन्ति।
(घ) बालकः सिंहाद् विभेति।
(ङ) ईश्वरः क्लेशात् त्रायते।
(च) प्रभुः भक्तं पापात् निवारयति।



Comments